|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.59. अध्यायः 059
Mahabharata - Drona Parva - Chapter Topics
सृञ्जयम्प्रति नारदेन राममङिमानुवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
नारद उवाच। 7-59-0x(4414)(47030)
रामं दाशरथिं चैव मृतं सृञ्जय शुश्रुम।
यं प्रजा अन्वमोदन्त पिता पुत्रमिवौरसम्।
असङ्ख्येया गुणा यस्मिन्नासन्नमिततेजसि॥ 7-59-1(47031)
यश्चतुर्दशवर्षाणि निदेशात्पितुरच्युतः।
वने वनितया सार्धमवसल्लक्ष्मणाग्रजः॥ 7-59-2(47032)
जघान च जनस्थाने राक्षसान्मनुजर्षभः।
तपस्विनां रक्षणार्थं सहस्राणि चतुर्दश॥ 7-59-3(47033)
तत्रैव वसतस्तस्य रावणो नाम राक्षसः।
जहार भार्यां वैदेहीं सम्मोह्यैनं सहानुजम्॥ 7-59-4(47034)
`रामो हृतां राक्षसेन भार्यां श्रुत्वा जटायुषः।
आतुरः शोकसन्तप्तो रामोऽगच्छद्धरीश्वरम्॥ 7-59-5(47035)
तेन रामः सुसङ्गम्य वानरैश्च महाबलैः।
आजगामोदधेः पारं सेतुं कृत्वा महार्णवे॥ 7-59-6(47036)
तत्र हत्वा तु पौलस्त्यान्ससुहृद्गणबान्धवान्।
मायाविनं महाघोरं रावणं लोककण्टकम्'॥ 7-59-7(47037)
सुरासुरैरवध्यं तं देवब्राह्मणकण्टकम्।
जघान स महाबाहुः पौलस्त्यं सगणं रणे॥ 7-59-8(47038)
`हत्वा तत्र रिपुं सङ्ख्ये भार्यया सह सङ्गतः।
स च लङ्केश्वरं चक्रे धर्मात्मानं विभीषणम्॥ 7-59-9(47039)
भार्यया सह संयुक्तस्ततो वानरसेनया।
अयोध्यामागतो वीरः पुष्पकेण विराजता॥ 7-59-10(47040)
तत्र राजन्प्रविष्टः सन्नयोध्यायां महायशाः।
मातॄर्वयस्यान्सचिवानृत्विजः सपुरोहितान्॥ 7-59-11(47041)
शुश्रूषमाणः सततं मन्त्रिभिश्चाभिषेचितः।
विसृज्य हरिराजानं हनुमन्तं सहाङ्गदम्॥ 7-59-12(47042)
भ्रातरं भरतं वीरं शत्रुघ्नं चैव लक्ष्मणम्।
पूजयन्परया प्रीत्या वैदेह्या चाभिपूजितः॥ 7-59-13(47043)
दशवर्षसहस्राणि दशवर्षशतानि च।
चतुःसगारपर्यन्तां पृथिवीमन्वशासत॥ 7-59-14(47044)
अश्वमेधशतैरीजं क्रतुभिर्भूरिदक्षिणैः।
यश्च विप्रप्रसादेन सर्वकामानवाप्य च'॥ 7-59-15(47045)
सम्प्राप्य विधिवद्राज्यं सर्वभूतानुकम्पनः।
`सर्वद्वीपानवष्टभ्य प्रजा धर्मेण पालयन्'॥ 7-59-16(47046)
स निर्गलं मुख्यतममश्वमेधशतं प्रभुः।
आजहार सुरेशस्य हविषा मुदमाहरन्।
अन्यैश्च विविधैर्यज्ञैरीजे बहुगुणैर्नृपः॥ 7-59-17(47047)
क्षुत्पिपासेऽजयद्रामः सर्वरोगांश्च देहिनाम्।
सततं गुणसम्पन्नो दीप्यमानः स्वतेजसा॥ 7-59-18(47048)
अतिसर्वाणि भूतानि रामो दाशरथिर्बभौ।
ऋषीणां देवतानां च मानुषाणां च सर्वशः।
पृथिव्यां सह वासोऽभूद्रामे राज्यं प्रशासति॥ 7-59-19(47049)
नाहीयत तदा प्रामः प्राणिनां न तदा व्यथा।
प्राणापानौ समावास्तां रामे राज्यं प्रशासति॥ 7-59-20(47050)
पर्यदीप्यन्त तेजांसि तदाऽनर्थाश्च नाभवन्।
दीर्घायुषः प्रजाः सर्वा युवा न म्रियते तदा॥ 7-59-21(47051)
वेदैश्चतुर्भिः सुप्रीताः प्राप्नुवन्ति दिवौकसः।
हव्यं कव्यं च विविधं निष्पूर्तं हुतमेव च॥ 7-59-22(47052)
अदंशमशका देशा नष्टव्यालसरीसृपाः।
नाप्यु प्राणभृतां मृत्युर्नाकाले ज्वलनोऽदहत्॥ 7-59-23(47053)
अधर्मरुचयो लुब्धा मूर्खा वा नाभवंस्तदा।
शिष्टेष्टप्राज्ञकर्माणः सर्वे वर्णास्तदाऽभवन्॥ 7-59-24(47054)
स्वधां पूजां च रक्षोभिर्जनस्थाने प्रणाशिताम्।
प्रादान्निहत्य रक्षांसि पितृदेवेभ्य ईश्वरः॥ 7-59-25(47055)
सहस्रपुत्राः पुरुषा दशवर्षशतायुषः।
न च ज्येष्ठाः कनिष्ठेभ्यस्तदा श्राद्धानि कुर्वते॥ 7-59-26(47056)
श्यामो युवा लोहिताक्षो मत्तमातङ्गविक्रमः।
आजानुबाहुः सुभुजः सिंहस्कन्धो महाबलः॥ 7-59-27(47057)
दशवर्षसहस्राणि दशवर्षशतानि च।
सर्वभूतमनःकान्तो रामो राज्यमकारयत्॥ 7-59-28(47058)
रामो रामो राम इति प्रजानामभवत्कथा।
रामभूतं जगदभूद्रामे राज्यं प्रशासति॥ 7-59-29(47059)
चतुर्विधाः प्रजा रामः स्वर्गं नीत्वा दिवं गतः।
आत्मेच्छया प्रतिष्ठाप्य राजवंशमिहाष्टधा॥ 7-59-30(47060)
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्॥ ॥ 7-59-31(47061)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये एकोनषष्टितमोऽध्यायः॥ 59 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-59-17 स निरर्गलजान्मुख्यानश्वमेधाञ्शतं प्रभुः इति ङ. पाठः। आजहार महाजज्ञं प्रजा धर्मेण पालयन्। निरर्गलं सजारूथ्यमश्वमेधं च तं विभुः इति झ. पाठः। आजहार रमेशस्य इति ङ. पाठः॥ 5-59-19 पृथिव्यां मानुषाणां प्रत्यक्षा देवादयो विचरन्ति पुण्यातिशयात्॥ 5-59-20 प्राणो बलम्॥ 5-59-22 निष्पूर्तं जठीकारामादि। हुतमिष्ठम्। सुप्रीता ब्राह्मणाः शाखपारगाः इति ङ. पाठः॥ 5-59-29 रामाद्रामं जगदभूत् इति घ.झ.पाठः। तत्र रामं अभिरामम्॥ 5-59-59 एकोनषष्टितमोऽध्यायः॥ 59 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|